My Articles Samskrit

अग्निमिळे पुरोहितं यज्ञस्य देवमृत्विजम् | होतारं रत्नधातमम्

|| अग्निमिळे पुरोहितं यज्ञस्य देवमृत्विजम् | होतारं रत्नधातमम् ||

ऋग्वेद: १.००१.०१

सर्वेभ्यः नमो नम: |

अद्य अहं संस्कृतप्रचारः तथा च प्रसारकार्यसंबंधी मम विचारान् कथयिष्यामि | अस्माकं प्रमुखं कर्तव्यं ‘परमं वैभवं नेतुमेतत् स्वराष्ट्रम् |’ तदर्थं संस्कृत माध्यमेन राष्ट्रस्य समृद्धं तत्वज्ञानं विश्वे प्रसारार्थं विशेषं प्रयत्नं अपेक्षितं अस्ति |

एतदर्थं प्रत्येकः कार्यकर्ता स्वजीवने कथं वर्तेत एतस्य मार्गदर्शनं चत्वारिंशत् अधिक पंचमे ख्रिस्ताब्दे नीतिशास्त्रकारः राजा भर्तृहरी दत्तवान |

“वांछा सज्जनसंगमे, परगुणे प्रीतिर्गुरौ नम्रता |
विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद् भयम् ||
भक्ति: शूलिनि, शक्तिरात्मदमने संसर्गमुक्ति: खले |
येष्वेते निवसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नम: || ७१ || नीतिशतकं ||


अस्य श्लोकस्य मराठी स्वैरं अनुवादं सुप्रसिद्धः कविः वामन पंडितः कृतवान् |

“वांछा सज्जन संगमी गुरुकुली वंदारुता नम्रता |
निंदेचे भय तुष्टता परगुणी, स्वस्त्रीसुखे लुब्धता |
विद्याभ्यास, महेशभक्ति, खळसंसर्गी अनासक्तता |
चित्ताचा जय, या गुणास निधिजे, त्यां वंदीजे तत्वतां || ७१ ||


केन प्रकारेण अस्माकं हिंदू संस्कृती वयं संस्कृतस्य प्रचारू कर्तुं शक्नुमः एतद् विषये विचारं करोति | तद् पुर्वं अहं एकं अत्यंतां महत्वपूर्णां कथां संस्कृतेन कथयिष्यामि |

थोमस अल्वा एडिसन विश्वस्य महान् संशोधकः अस्ति | सः सहस्त्राधिकत्रिनवती विज्ञान शोधान् प्रस्थापितवान् | एडिसन द्वाविंशति नोव्हेंबर एकसहस्र अष्टशत सप्तसप्ततितमे वर्षे ‘ग्रामोफोन’ यंत्रं शोध पूर्णं कृतवान् | एडिसन विश्वस्य प्रसिद्धविदुषः ध्वनिमुद्रणम् अपेक्षितवान् | सः सुप्रसिद्ध विचारवंत म्याक्स मुल्लर महोदयं पत्रं लिखितवान् | तस्मिन् पत्रे एडिसन लिखितवान, “महोदय: अहं भवतः ध्वनिमुद्रणं कर्तुं इच्छामि | कदा भवत: मेलनं शक्यते?” म्याक्स मुल्लर तदनंतरं इंग्लंड देशं गतवान् |

कार्यक्रमस्थले बहवः जना: सन्ति | लोका: आनंदेन स्वागतं कृतवन्तः | एडिसन म्याक्समुल्लर महोदयं व्यासपीठे आमंत्रितवान् | म्याक्स मुल्लर यंत्र समीपे वार्तां कृतवान् | ततः एडिसन तस्य प्रयोगशाला गतवान | द्वे होरा नंतरं एडिसन पुन: लोकसमीपे आगतवान् | ग्रामोफोन

यंत्रमाध्यमेन म्याक्स मुल्लर महोदयस्य ध्वनिं सर्वे जना: श्रुतवन्तः | सर्वे जना: बहू आश्चर्यं अनुभवन्ति | तद् पश्चात् म्याक्स मुल्लर उपस्थितजनान् एकं प्रश्न पृच्छति,” प्रात:काले यूयम् सर्वे मम ध्वनिं श्रुतवन्तः | तदनंतरं ग्रामोफोन यंत्रद्वारा पुन: मम ध्वनिं श्रुतवन्तः | प्रात: काले तथा च अपरान्ह काले अहं किं उक्तवान?” सर्वे जना: म्याक्स मुल्लर महोदयस्य भाषां न जानन्ति | युरोपविद्वान्सः जना: तां भाषा तदपूर्वं न श्रुतवन्तः | म्याक्स मुल्लर उक्तवान, “विश्वस्य प्रथमं अतिप्राचीनसाहित्यं तथा तत्वज्ञानस्य महान् ग्रंथस्य प्रथम मंडलस्य प्रथम श्लोक: अहं पठितवान, “अग्निमिळे पुरोहितं यज्ञस्य देवमृत्विजम् | होतारं रत्नधातमम || १.००१.०१ ||”

[संदर्भ: The Life & Letters of the Right Honorable Friderich Max Muller, Volume-1, Chapter-XXII, Page-50]

|| जयतू संस्कृतं || जयतू भारतं ||

Share this on:
©2020: Mukund Bhalerao | Web Master: TechKBC
Back To Top